सूत्रम्
हिंसायां प्रतेश्च॥ ६।१।१३६
काशिका-वृत्तिः
हिंसायां प्रतेश् च ६।१।१४१
किरतौ इत्येव। उपात् प्रतेश्च उत्तरस्मिन् किरतौ सुट् कात् पूर्वः भवति हिंसयां विषये। उपस्कीर्णं हं ते वृषल भूयात्। प्रतिस्कीर्णं हं ते वृषल भूयात्। तथा ते वृषल विक्षेपो भूयात् यथा हिंसामनुबध्नाति इत्यर्थः। हिंसायाम् इति किम्। प्रतिकीर्णम्।
लघु-सिद्धान्त-कौमुदी
हिंसायां प्रतेश्च ६६५, ६।१।१३६
उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम्। उपस्किरति। प्रतिस्किरति॥ गॄ निगरणे॥ ४०॥
न्यासः
हिंसायां प्रतेश्च। , ६।१।१३६
"हिंसायां विषये" इति। एतेन किरतेर्नाभिधेयत्वेन हिंसा विशेषणम्()। अपि तु तदर्थस्य विषयभावेनेति दर्शयति। "प्रतिस्कीर्णम्()" इति। "ऋत इद्धातोः"
७।१।१०० इतीत्त्वम्(), रपरत्वञ्च, "रदाभ्याम्()"
८।२।४२ इत्यादिना निष्ठानत्वम्(), "हलि च"
८।२।७७ इती दीर्घत्वम्()। "तथा" इत्यादिना किरतेरर्थस्य हिंसाविषयतां दर्शयति। "अनुबध्नाति" इति। अनुगच्छतीत्यर्थः॥
बाल-मनोरमा
हिंसायां प्रतेश्च ३७०, ६।१।१३६
हिंसायां प्रतेश्च। चकारादुपादिति समुच्चीयते। तदाह - उपादिति।
गृ? निगरणे इति। निगरणं - भक्षणम्। सेट्।
तत्त्व-बोधिनी
हिंसायां प्रतेश्च ३२४, ६।१।१३६
हिंसायां प्रतेश्च। चादुपात्। "उरोविदारं प्रतिचस्करे नखै"रिति माघः। कर्मणि लिट्। "ऋच्छत्यृ()ता"मिति गुणः।